श्रीः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।।
अगज्ञानन पद्मार्कं गजाननमहर्निशं ।
अनेकदं तं भक्तानामेकदन्तमुपस्महे ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात्परब्रह्म तस्मै श्री गुरवे नमः ।।
गुरवे सर्व लोकानं भिषज्ञे भवरोगिणां ।
निधये सर्वविद्यानं दक्षिणामूर्तये नमः ।।
अज्ञानन्तर्गहन पतितानात्मविद्योपदेशैः ।
त्रातुं लोकान् भवदवशिखातापपापच्यमानान् ।।
मुक्त्वा मौनं वटविटपिनो मूलतो निःसरन्ती
शंभोर्मूर्तिश्चरति भुवने शंकराचार्यरूपा ।।




No comments
Comments feed for this article